सांख्य दर्शनम् / Sankhya Darshanam

 सांख्य दर्शनम् / Sankhya Darshanam

सांख्य दर्शन का परिचय,सांख्य दर्शन क्या है, सांख्य दर्शन के रचयिता कौन है, सांख्य दर्शन कितने पदार्थ मानते हैं,what is sankhya darshan, sankhya darshan in sanskrit,सांख्य दर्शन संस्कृत में,

सांख्य दर्शनम् / Sankhya Darshanam

            भारतीयदर्शनेषु 'सांख्यं' स्वीक्रियते प्राचीनं महत्त्वपूर्णञ्च । सांख्यदर्शनस्य प्रवर्तको वर्तते महर्षिकपिलः'संख्यायन्ते - गण्यन्ते पदार्था अस्मिन्निति सांख्यम्' इति व्युत्पत्या प्रथमतः पदार्थानां गणना अस्मिन्नेव दर्शनेऽभूदतः संख्यायाः प्राधान्येन अस्य दर्शनस्य 'सांख्यं ' नाम सर्वथा सार्थकं विद्यते । 

अस्ति सांख्यस्य अपरोऽर्थः ' विवेकज्ञानम् । प्रकृतिपुरुषयोरज्ञाने संसारभावः ज्ञाने च मोक्ष इति प्रकृतिपुरुषयोविवेकज्ञानस्य प्रामुख्येन दर्शनमिदं सांख्यं निगद्यते ।

           उपनिषत्सु निर्दिष्टसिद्धान्तानां शास्त्रदृष्ट्या विवेचनं सर्वप्रथमं कपिलमुनिना कृतम् । उपनिषत्कालिकं सांख्यं वेदान्तमिश्रितमासीत् । तद् विभज्य सांख्यं स्वतन्त्रदर्शनपदे कपिलेन प्रतिष्ठापितम् , अतएव कपिलः 'आदि विद्वान्' इति महनीयेन उपाधिना विभूषितो जातः । कपिलमुनेर्द्वे कृती समुपलभ्येते - तत्त्वसमासः , सांख्यसूत्रम् । 'तत्त्वसमासः' द्वाविंशति - लघुसूत्राणां समुच्चयोऽस्ति । सांख्यसूत्रे षडध्यायाः , तेषु च ५३७ संख्याकानि सूत्राणि विद्यन्ते । 'तत्त्वसमासः' सांख्यदर्शनस्य प्राचीनतमो ग्रन्थ इत्यनेके मनीषिणः स्वीकुर्वन्ति । कपिलमुनेः पश्चात् सांख्यमतप्रवर्तकेषु आसुरिपञ्चशिखेश्वरकृष्णाः प्रमुखा आचार्याः सन्ति । एषु ईश्वरकृष्णस्य 'सांख्यकारिका' सांख्यदर्शनस्य प्रामाणिकी लोकप्रिया च रचना विद्यते ।

               सांख्यदर्शने पञ्चविंशति तत्त्वानि परिगणितानि तेषु चतुर्विंशति तत्त्वानि सन्ति प्राकृतानि । एकञ्च पुरुषतत्त्वं वर्तते । एषामेव पञ्चविंशतितत्त्वानां गणनाऽभूत्सांख्यदर्शने ।
कार्यकारणविषयेऽस्ति सांख्यस्यैकं विशिष्टं मतं यत् 'सत्कार्यवाद' शब्देन प्रसिद्धम् । सांख्यदर्शनं कारणव्यापारात् प्रागपि कार्यं सदिति स्वीकरोति । न्यायवैशेषिकमतं कारणव्यापारात् पूर्वं कार्यमसदिति मनुते । सांख्यस्याभिमतः परिणामवादो न तु विवर्तवादः ।

                सांख्यदर्शनस्य पञ्चविंशतितमं तत्त्वं पुरुषः । स हि पुरुषः स्वयंसिद्धोऽनेकश्च । सांख्यं युक्त्या पुरुषबहुत्वं प्रतिपादयति । प्रकृतिपुरुषयोः संयोगेन भवति विश्वस्य सृष्टिः । प्रलयकाले त्रिगुणात्मिका प्रकृतिस्तिष्ठति साम्यावस्थायाम् । प्रकृत्या पुरुषस्य संयोगे जाते त्रिषु गुणेषु क्षोभ उत्पद्यते । त्रयोऽपि गुणास्तदा विषमा भवन्ति । प्रकृत्या अस्यामेव विषमावस्थायां सृष्टिकार्यमारभ्यते । सांख्याः प्रमेयं ज्ञातुं प्रत्यक्षम् , अनुमानम् , शब्द इति त्रीण्येव प्रमाणानि स्वीचक्रुः । 
        
                    सांख्यदर्शने पुरुषः चेतनः निष्क्रियः द्रष्टा च वर्तते । प्रकृतिरचेतना सक्रिया त्रिगुणात्मिका च विद्यते । पुरुषोऽस्ति स्वभावतोऽसंगो मुक्तश्च , किन्तु अविवेकवशात् प्रकृत्या संयुज्यते । अनेनैव संयोगेन प्रकृतिजन्यैः दुःखैः पुरुषः प्रतिबिम्बितो भवति । अयमेव पुरुषस्य संसारभावः कथ्यते । संसारभावस्य मूलमविवेको निवृत्तिसाधनञ्च विवेको भवतः । सांख्यदर्शने प्रकृतिपुरुषयोर्भेदज्ञानं , पुरुषस्य प्रकृतेः पृथक् स्थितिर्वा अपवर्ग ( मोक्षः ) उच्यते । नष्टे शरीरे पुरुष ऐकान्तिकात्यन्तिकदुःखत्रयविनाशं प्राप्नोति । अस्या एवावस्थायाः शास्त्रीयाभिधा विद्यते विदेहमुक्तिः । 

               सांख्यस्य तत्त्वमीमांसा वैशेषिकपदार्थमीमांसापेक्षया अधिका युक्तिसंगता वर्तते । विद्यते सांख्यस्य तत्त्वविश्लेषणं लोकदृष्ट्या व्यावहारिक द्वैतमतसमर्थकञ्च ।


सन्दर्भ- संस्कृत वाङ्गमय का बृहद इतिहास

एक टिप्पणी भेजें

1 टिप्पणियाँ