भारतीय दर्शन / Bharatiya Darshan
अस्ति जगदिदमगम्यैका प्रहेलिका । अस्य प्रहेलिकाभूतस्य जगतः स्वरूपज्ञानाय अनेकेषां सभ्य - शिक्षितदेशानां चिन्तनशीला मनीषिणः प्रयतमानाः सन्ति । भारतवर्षस्य तत्त्वदर्शिनो विद्वांसः स्वप्रातिभनेत्रैर्यानि सूक्ष्मतत्त्वानि दृष्टवन्तः , स्वीयया तीक्ष्णबुद्ध्या च यानि तत्त्वानि विश्लेषणपथमानीतवन्तस्तानि दर्शनशास्त्रस्येतिहासे नितान्तं महनीयानि सन्ति ।
तत्त्वज्ञानं हि विद्यते भारतीयसंस्कृतिधर्मयोर्मूलम् । तत्त्वज्ञानस्य गंभीरमध्ययनमस्ति दर्शनशास्त्रस्य मूलमुद्देश्यम् ।
'दृश्यते तत्त्वं येन' इति व्युत्पत्त्या येन वस्तुनः सत्यभूतं तात्त्विकं स्वरूपं दृश्यते तद् दर्शनमुच्यते । कोऽहम् , कुत आगच्छम् , अस्य परिदृश्यमानस्य विश्वस्य किमस्ति सत्यस्वरूपम् , कस्मादिदं जगदुत्पन्नम् , अस्याः सृष्टेः कारणं किम् , सृष्टिरियमचेतना चेतना वा , विश्वेऽस्मिन् किमस्ति मम कर्तव्यम् , सम्यग्जीवनस्य कः शोभनसाधनमार्गः , किमस्ति मानवजीवनस्य परमं प्रयोजनम् ? इत्यादीनां प्रश्नानां समुचितमुत्तरदानमेव विद्यते दर्शनस्य प्रमुखं लक्ष्यम् ।
दर्शनम् 'शास्त्र' शब्देनाभिधीयते । शास्त्रशब्दः शास् - शंस- धातुभ्यां निष्पद्यते , यस्य क्रमशः शासनं शंसनं चेत्यर्थद्वयं भवति । शासने शास्त्रस्य धर्मशास्त्रमित्यर्थो भवति । शंसने च शास्त्रस्यार्थों वस्तुनः सत्यस्वरूपवर्णनं वर्तते । शासनशास्त्रं क्रियापरं शंसनशास्त्रं च ज्ञानपरं भवतः । भवति शंसनार्थे शास्त्रशब्दप्रयोगः दर्शनशब्देन साकम् । वर्तते धर्मशास्त्रं प्रधानतया विधिनिषेधयोर्विधानेन पुरुषतन्त्रं , किन्तु दर्शनशास्त्रं वस्तुस्वरूपप्रतिपादकत्वेन वस्तुतन्त्रं विद्यते ।
पाश्चात्यविचारशास्त्रस्य सामान्यं नाम वर्तते 'फिलासफी'। शब्दोऽयं ' फिलास ' ' सोफिया ' इति द्वयोः ग्रीकशब्दयोः मिश्रणेन निष्पद्यते । शब्द - द्वयेन निष्पन्नस्य ' फिलासफी ' शब्दस्यार्थों भवति विद्यानुरागः । जीव - जगदीश्वरतत्त्वान्वेषणपरायणो विद्वानेव ' फिलासफर ' ( विद्यानुरागी ) उच्यते ।
विविधविज्ञानैरुद्भावितसत्यानामेकीकरणमेवास्ति 'फिलासफी ' इत्यस्य प्रतिपाद्यो विषयः । अतः सामान्यरूपेण दर्शनस्य कृते ' फिलासफी ' शब्दः प्रयुज्यते । परन्तु ' फिलासफी ' दर्शनशब्दयोः प्रयोजनेऽस्ति पार्थक्यम् । 'फिलासफी' कल्पनाकुशलकोविदां मनोविनोदस्य साधनं विद्यते , किन्तु भारतीयदर्शनं दुःखमयसंतप्तजीवस्य मोक्षाय प्रशस्तपथं निर्दिशति । अतो भारतीयदर्शनस्य दृष्टिः पाश्चात्त्य ' फिलासफी ' इत्यपेक्षया उदात्ता , व्यावहारिकी , लोकोपकारिका , सुव्यवस्थिता च विद्यते ।
0 टिप्पणियाँ