न्याय दर्शनम् / Nyaya Darshanam
न्याय दर्शनम् / Nyaya Darshanam
आस्तिकदर्शनेषु न्यायदर्शनं प्रामुख्यं भजति । वैदिकधर्मस्य स्वरूपबोधाय न्यायसिद्धान्तोऽस्ति परमोपयोगी । अत एव मनुस्मृतौ श्रुत्यनुगामिनस्तर्कस्य साहाय्येनैव धर्मरहस्यं ज्ञेयमित्युक्तम् । वात्स्यायनेन न्यायः सर्वासां विद्यानां प्रदीप उक्तः । अस्ति न्यायस्य व्यापकोऽर्थः विभिन्नप्रमाणैर्वस्तुतत्त्वपरीक्षा । प्रमाणैरर्थपरीक्षणं न्यायः ( वा . न्या . भाष्यम् १1१19 ) अस्ति न्यायस्य अपरं नाम आन्वीक्षिकी । अन्वीक्षया - अनुमित्या प्रवृत्ता न्यायविद्या एव आन्वीक्षिकी कथ्यते ।
भारतीयदर्शने ग्रन्थसम्पत्तिदृष्ट्या वेदान्तं विहाय न्यायस्य श्रेष्ठं स्थानं वर्तते । विक्रमपूर्वपञ्चमशतकादारभ्य अद्यावधि न्यायदर्शनस्य विमला धारा अबाधरूपेण प्रवहति । न्यायदर्शनविकासस्य द्वे धारे दृष्टिपथमायातः । प्रथमा सूत्रकाराद् गौतमादारभ्यते द्वितीया च गंगेशोपाध्यायात्। प्रथमायां प्राचीनन्यायधारायां पदार्थमीमांसाया द्वितीयायां नव्यन्यायधारायां प्रमाणमीमांसायाः प्राधान्यं दृश्यते ।
गौतमर्षिविरचितानि न्यायसूत्राणि सन्ति पञ्चसु अध्यायेषु विभक्तानि , येषु प्रमाणादि षोडशपदार्था उद्देश-लक्षण -परीक्षणैः सम्यग् विवेचिता वर्तन्ते । वात्स्यायनो न्यायसूत्राणां विशदं भाष्यं रचयामास । न्यायदर्शनविषयकानि - उद्योतकरस्य 'न्यायवार्तिकम्' , वाचस्पतिमिश्रस्य 'तात्पर्यटीका' , जयन्तभट्टस्य 'न्यायमञ्जरी' , उदयनाचार्यस्य 'न्यायकुसुमाञ्जलिः' , गंगेशोपाध्यायस्य 'तत्त्वचिन्तामणिः' इत्यादीनि ग्रन्थरत्नानि प्रशस्तानि लोकप्रियाणि च विद्यन्ते ।
पदार्थनिरूपणेन साकं न्यायदर्शनमीश्वरमपि विवेचयति । ईश्वरानुग्रहेण विना प्रमेयज्ञानं मोक्षं च प्राप्तुं जीवो न पारयति । ईश्वरोऽस्य जगतः स्रष्टा , पालको नाशकश्च वर्तते । न्यायमते ईश्वरो विद्यतेऽस्य विश्वस्य निमित्तकारणं न तूपादानकारणम् । ईश्वर एव जीवमात्रस्य नियन्ता , कर्मफलस्य दाता , सुख - दुःखयोर्व्यवस्थापकश्च वर्तते । ईश्वरस्याधिपत्य एव जीवः स्वकर्मसम्पादनं विधाय परमं लक्ष्यं प्राप्तुं शक्नोति ।
न्यायसूत्रानुसारेण दुःखादत्यन्तविमोक्षोऽपवर्ग उच्यते - 'तदत्यन्तविमोक्षोऽपवर्गः' ( न्यायसूत्रम् १११।२२ ) । मुक्तावस्थायामात्मा विशुद्धो निर्गुणश्च तिष्ठति । मुक्तात्मनि सुखस्याभावोऽतस्तत्र न भवत्यानन्दानुभवः ।
अस्ति शास्त्रीयविवेचनपद्धतिर्न्यायदर्शनस्यामूल्यो निधिः । प्रमाणस्य विशदां व्याख्यां विधाय न्यायेन यानि तत्त्वानि प्राकाश्यमानीतानि , तेषामन्यदर्शनैरपि कतिपयपरिवर्तनैः सह उपयोगः कृतः । हेत्वाभासानां सूक्ष्मं विवरणं प्रदाय न्यायदर्शनेन अनुमानस्य निर्दुष्टो मार्गो निर्दिष्टः । विद्यते न्यायदर्शनस्य विलक्षणा तर्कसरणिः सर्वथा श्लाघनीया ।
0 टिप्पणियाँ