वैशेषिक दर्शन , Vaisheshik Darshan

भारतीय दर्शन,भारतीय संस्कृति, भारतीय साहित्य, शास्त्र,bhartiya darshan,bhartiya sanskriti

वैशेषिक दर्शन सामान्य परिचय -             


                विद्वन्मण्डले 'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इत्यस्त्येका भणितिः प्रथिता । शब्दार्थनिर्णये व्याकरणमिव पदार्थस्वरूपनिर्णये काणाददर्शनमत्यन्तमुपादेयं विद्यते । सन्त्यस्य दर्शनस्य काणादौलूक्यवैशेषिकानि त्रीणि नामानि । काणादम् , औलूक्यं चेति नामद्वयं दर्शनस्यास्याद्यप्रवर्तकं कणादम् उलूकं चाधृत्य वर्तते । अस्य वैशेषिकाभिधानन्तु 'विशेष' पदार्थस्वीकारेण प्रसिद्धिं गतम् । 

                   वैशेषिकदर्शनस्य प्रथमाचार्यः कणादो , येन वैशेषिक - सूत्राणि विरचितानि । वैशेषिकसूत्राणां भाष्येषु प्रशस्तपादस्य ‘पदार्थधर्मसंग्रह' संज्ञकं भाष्यं वैशेषिकतत्त्वं निर्णेतुं नितान्तं मौलिकं ग्रन्थरत्नं मन्यते । प्रशस्तपादभाष्योपरि उदयनाद्याचार्याणां समुपलभ्यन्ते टीकासम्पत्तयः । वैशेषिकदर्शनेऽभिधेयं वस्तु ‘पदार्थ' इत्युच्यते । प्रमितिविषयत्वमपि पदार्थलक्षणमतोऽभिधेयत्वं ज्ञेयत्वञ्च पदार्थस्य भवति सामान्यलक्षणम् । 

               वैशेषिकसूत्रेषु षट् पदार्था एवोपलभ्यन्ते । भावात्मकपदार्थानामेव वर्गीकरणमभीष्टं मत्वा कणादेन अभावपदार्थोऽस्वीकृतः । पदार्थेषु अभावस्य समावेशः पश्चाद्वर्तिना 'चन्द्र' नाम्नाऽऽचार्येण कृतः । ' विशेष ' पदार्थस्य स्वीकृतिरेवास्य दर्शनस्य नैजं वैशिष्ट्यम् । एकस्याः श्रेण्याः समानगुणवतां वस्तूनामन्योन्यभेद - साधकः पदार्थ एव 'विशेष' उच्यते । 

                पदार्थविश्लेषणेन सहैव वैशेषिकदर्शनं मोक्षमपि निरूपयति । यदा अदृष्टस्याभावे सति कर्मचक्रगतिरवरुध्यते तदा आत्मा शरीरसंसर्गाद् विच्छिद्यते । जन्ममरणपरम्पराऽपि अस्तं गच्छति सर्वाणि दुःखानि विनश्यन्ति । अयमेव 'मोक्ष' उच्यते । ( द्रष्टष्यम् - वैशेषिकसूत्रम् ५।२।१८ ) मोक्षोऽयं तत्त्वज्ञानादेव प्राप्यते । निवृत्तिधर्मप्रसूतं , द्रव्यादिषट्पदार्थानां साधर्म्य वैधर्माभ्यां समुत्पन्नं तत्त्वज्ञानमेव अस्ति मोक्षस्य साधनम् । 

                  यद्यपि वैशेषिकदर्शनस्य सिद्धान्तस्तार्किक दृष्ट्या नास्ति सर्वमान्यस्तथापि आधुनिकभौतिकविज्ञानमिव वैशेषिकस्य भौतिकजगत्समीक्षणं लौकिकदृष्ट्या नितान्तमुपादेयं विद्यते । तत्त्वप्रासादस्य एभिरेव सोपानैरद्वैततत्त्वशिखरोपलब्धिः संभवति ।


वैशेषिक दर्शन pdf के लिए यहाँ क्लिक कीजिए

एक टिप्पणी भेजें

1 टिप्पणियाँ