मीमांसादर्शनम् / Mimansa Darshanam

 मीमांसादर्शनम् / Mimansa Darshanam

Mimansa darshan kya hai,mimansa ke lekhak kaun hai,mimansa me shabda praman,मीमांसा के लेखक कौन है, मीमांसा में शब्द प्रमाण,मीमांसा में प्रमाण विचारः,


मीमांसादर्शनम् / Mimansa Darshanam

                  कस्यापि वस्तुस्वरूपस्य यथार्थवर्णनं भवति मीमांसाशब्दार्थः । विद्यते वेदस्य मुख्यतो विभागद्वयम् - कर्मकाण्डम् , ज्ञानकाण्डम् इति । यज्ञादिविधिवर्णनं कर्मकाण्डस्य विषयः , जीवजगदीश्वररूपाणां तेषां च सम्बन्धनिरूपणं ज्ञानकाण्डस्य विषयः । मीमांसाऽपि द्विविधा - 

 कर्ममीमांसा , ज्ञानमीमांसा च ।

 'कर्ममीमांसा' इति नाम्नाभिहितं दर्शनमेव 'मीमांसा' उच्यते । ज्ञानमीमांसा नाम्ना प्रसिद्ध 'वेदान्त' इति कथ्यते ।

 मीमांसादर्शनं पूर्णतया वैदिकं वर्तते । 'मीमांसते' इति क्रियापदस्य , 'मीमांसा' इति संज्ञापदस्य च प्रयोगो ब्राह्मणग्रन्थेषु उपनिषत्सु चोपलभ्यते । अतः मीमांसादर्शनमतिप्राचीनकालसम्बद्धमिति प्रतीयते ।


              धर्मस्वरूपविवेचनमेव मीमांसायाः प्रतिपाद्यो विषयः - 'धर्माख्यं विषयं वस्तु मीमांसायाः प्रयोजनम्' ( श्लो.वा. श्लो .१ ) वेदविहितमिष्टसाधनं धर्मः , वेदनिषिद्धानिष्टसाधनमधर्मः । अस्मिन् विश्वे कर्म एव सर्वोत्कृष्टं वस्तु । तस्मादेव कर्मणो निश्चयेन फलमुत्पद्यते । मीमांसा - दर्शने ऽस्ति  'अपूर्व' संज्ञकः कश्चित् सिद्धान्तः । कर्म अपूर्वमुत्पादयति , अपूर्वेण च फलमुत्पद्यते । इत्थं हि 'अपूर्व' एवं कर्मफलयोर्बन्धनशृंखला प्रतीयते । 


                    कर्मज्ञानयोर्विषयेऽस्ति मीमांसावेदान्तयोर्मतभिन्नता । वेदान्तानुसारेण कर्मत्यागानन्तरमेव आत्मज्ञानं संभवति । कर्म तु केवलं चित्तशुद्धिसाधनम् । मोक्षप्राप्तिस्तु ज्ञानेनैव भवितुमर्हति 'ऋते ज्ञानान्न मुक्तिः' । 

              मीमांसानुसारेण मोक्षार्थिभिरपि जनैः कर्म कर्तव्यम् । वेदविहित - कर्मानुष्ठानेन कर्मबन्धनं स्वत एव विनश्यति । अतः कर्मानुष्ठानमेवाभीष्टं न तु कर्मवर्जनम् । 

                    वैदिकदर्शनस्य प्राणतत्त्वं विद्यते मीमांसाशास्त्रम् । मीमांसाशास्त्रस्य सूत्रकारो जैमिनिः । मीमांसादर्शनस्य षोडशाध्यायेषु प्रथमे द्वादशाध्यायाः ' द्वादशलक्षणी ' इति नाम्ना प्रथिताः , शेषाश्चत्वारोऽध्यायाः ' देवताकाण्डम् ' इति संज्ञया प्रसिद्धाः सन्ति । अस्या एव द्वादशलक्षण्याः वृत्तिभाष्यवार्तिकरूपाः रचनाः कालान्तरेऽभूवन् । 

                  द्वादशलक्षण्याः प्राचीनतमो वृत्तिकार उपवर्ष आसीत्शबरस्वामिना समेषां द्वादशाध्यायानां भाष्य निर्माय मीमांसादर्शनस्य गभीरतत्त्वानि निपुणं विवेचितानि।


              मीमांसादर्शनस्येतिहासे कुमारिलभट्टो मौलिककल्पनया , विशदव्याख्यया , विलक्षणप्रतिभया च सदा स्मरणीयः समादरणीयश्च स्थास्यति । शाबरभाष्योपरि कारिकाबद्धं विपुलकायं 'श्लोकवार्तिक' कुमारिलभट्टस्यैव महनीयं ग्रन्थरत्नं विद्यते । मीमांसा  वेदस्यापौरुषेयत्वमङ्गीकरोति । मीमांसायां वेदस्य नित्यत्वे शब्दनित्यत्वमेव सर्वोत्कृष्टं प्रमाणम् । वेदो हि नित्यशब्दराशिरतो नित्यः । अस्मिन्मते सत्यं स्वतःप्रकाश्यं वर्तते । सत्यसिद्धये नास्ति प्रमाणान्तरापेक्षा ।

                  तत्त्वज्ञानदृष्ट्या मीमांसा जगत्प्रपञ्चं नित्यं स्वीकुरुते । कार्यकारणसम्बन्धव्याख्याने ऽस्ति मीमांसाया नवीना दृष्टिः । तन्मते कार्योत्पत्तौ कारणेन सह शक्तिरपि स्वीकार्या , यतो हि शक्तिरपि विद्यते एको विशिष्टः पदार्थः ।


                     वैदिककर्मणां फलमस्ति स्वर्गप्राप्तिः । निरतिशयस्य सुखस्य एव अपरं नाम स्वर्गः । 'स्वर्गकामो यजेत' इति वाक्यानुसारेण यज्ञसम्पादनस्य प्रयोजनं स्वर्गकामनैव । मन्यते कर्मकाण्डस्योपादेयत्वं मीमांसा , अत एव सा कर्म एव ईश्वरं स्वीकरोति । अस्मादेव कारणात् प्राचीनमीमांसा ' निरीश्वरा ' इति प्रतीयते । 

                   मीमांसादर्शने मोक्षस्यापि सूक्ष्मविवेचनं कृतमस्ति । 'प्रपञ्चसम्बन्धविलयो मोक्ष ' इति मीमांसाभिमतं मोक्षलक्षणम् । अस्मात् जगत्प्रपञ्चात् आत्मनः सम्बन्धविच्छेद एव मोक्षः । वैदिकधर्मतत्त्वज्ञानाय मीमांसादर्शनस्य सम्यगनुशीलनं नितान्तमुपादेयमिति निष्कर्षः । 

एक टिप्पणी भेजें

0 टिप्पणियाँ