योगदर्शनम् / Yogadarshanam

 योगदर्शनम् /Yogadarshanam

Yogadarshan kya hai,what is yogadarshan,yogadarshan ka parichay,योगदर्शन क्या है, योगदर्शन किसने लिखा,योगदर्शन का परिचय,
योगदर्शनम्

योगदर्शनम् / Yogadarshanam

                   योगशास्त्रमार्यजातेरस्ति प्राचीनतमं ज्ञानम् , यस्मिन् न विद्यते कोऽपि विवादः । योग एवास्ति सर्वोत्तमो मोक्षोपायः संसारसागरनिमग्नस्य जीवस्येश्वरसंयोगे भक्तिज्ञानयोश्च प्रधान साधनम् । यद्यपि समुपलब्धयोगसूत्राणां प्रणेता पतञ्जलिः , किन्तु तस्मादपि योगः प्राचीना अध्यात्मप्रक्रिया विद्यते । संहितासु , ब्राह्मणेषु , उपनिषत्सु चानेकत्र योगस्य सङ्केत उपलभ्यते । योगः सांख्याभिमतं सर्व तत्त्वं स्वीकृत्य ईश्वरं तदतिरिक्त षड्विंशतितमं तत्त्वं मनुते । अतएव योगः 'सेश्वरसांख्य ' मप्युच्यते । 

               सन्ति योगदर्शने चत्वारः पादाः , येषु सूत्राणां संख्या १९५ वर्तते । प्रथमे समाधिपादे समाधेः रूपम् , भेदः , चित्तम् , तस्य वृत्तयश्च वर्णिताः सन्ति । द्वितीये साधनपादे क्रियायोगक्लेशाष्टाङ्गयोगानां वर्णनं विद्यते । तृतीये विभूतिपादे धारणाध्यानसमाध्यनन्तरं योगानुष्ठानादुत्पन्ना विभूतयो वर्णिताः सन्ति । चतुर्थे कैवल्यपादे समाधिसिद्धिः , विज्ञानवादनिरासः कैवल्यनिर्णयश्च प्रतिपादिताः सन्ति ।

                    पातञ्जलयोगसूत्रस्य 'व्यासभाष्य' मतीव प्रामाणिको ग्रन्थः । योगसूत्राणां गूढरहस्योद्घाटने भाष्यमिदं परमोपयोगि वर्तते । योगसूत्राणां विविधासु टीकासु - 

भोजस्य 'राजमार्तण्ड' : ( भोजवृत्तिः ) , 

भावावेशस्य 'वृत्तिः' , 

रामानन्दयतेः 'मणिप्रभा' , 

अनन्तपण्डितस्य 'योगचन्द्रिका' , 

सदाशिवेन्द्रस्य 'योगसुधारकः' ,

नागोजिभट्टस्य 'लघ्वी' 'बृहती' वृत्तयः नितान्तं प्रथिताः सन्ति ।

 वाचस्पतिमिश्रेण व्यासभाष्यस्य 'तत्त्ववैशारदी' व्याख्यां विलिख्य योगतत्त्वानि बोधगम्यानि कृतानि । व्याख्यायामस्यां योगसूत्रव्यासभाष्ययोः पारिभाषिकशब्दाः विस्तरेण परिष्कृताः सन्ति । 

                     समाध्यर्थकस्य 'युज्' धातोर्निष्पन्नस्य 'योग' शब्दस्य 'समाधिः' इत्यर्थों भवति । अस्ति पतञ्जलेर्योगलक्षणम्- 'योगश्चित्तवृत्तिनिरोधः' । मनोबुद्ध्यहकाररूपमन्तःकरणमेव चित्तम् । तस्य चित्तस्य नियमनमेव योगः । अन्तःकरणरूपस्य चित्तस्य सन्ति क्षिप्त - मूढ - विक्षिप्त एकाग्रनिरुद्धाख्याः पञ्च भूमयः । चित्तवृत्तीनां च प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपाः भवन्ति पञ्च भेदाः । योगसिद्धधौ चित्तवृत्तिभिः सह तासां संस्काराणामपि निरोध आवश्यकः । अत एव चित्तस्य स्थूलवृत्तीनां सूक्ष्मसंस्काराणाञ्च निरोधादेव योगः पूर्णतामाप्नोति ।

                योगदर्शने स्तः समाधेर्द्वौ भेदौ- सम्प्रज्ञातसमाधिः असम्प्रज्ञातसमाधिश्च सम्प्रज्ञातसमाधौ ध्येये वस्तुनि चित्तं चिरकालं यावत् तिष्ठति । अस्यामवस्थायां किमप्यालम्बनं भवत्येव । असम्प्रज्ञातसमाधौ सर्वा अपि चित्तवृत्तयो निरुध्यन्ते । न तिष्ठति किमप्यालम्बनं तत्र । सम्प्रज्ञातसमाधौ ध्येयवस्तुनो ज्ञानं तिष्ठति , असम्प्रज्ञातसमाधौ ध्येय - ध्यानध्यातॄणामेकाकारता जायते । योगदर्शनस्य विद्यते परमोद्देश्यमात्मदर्शनम् । 

                 योगदर्शने ईश्वरः पुरुषविशेषरूपेण स्वीकृतो विद्यते । 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर:' इति योगस्य ईश्वरलक्षणम् । योगाचार्याः ईश्वर सिद्ध्धौ शब्दप्रमाणे श्रेष्ठं मन्यन्ते । ईश्वरप्रणिधानेन समाधिसिद्धिः । ईश्वरो गुरूणामपि गुरुरतस्तारकज्ञानदः साक्षादीश्वर एव इति योगस्य सिद्धान्तः ।

                मानवजीवनस्याध्यात्मिकोत्कर्षेऽस्ति योगः परमोपयोगी । भारतीयैरस्य दर्शनस्थानुशीलनं विज्ञानमिव कृतम् । कायचित्तमलोन्मूलनद्वारा आध्यात्मिकसमुन्नतेः शिक्षां योगदर्शनादेव जीवो लभते । साम्प्रतं पाश्चात्त्यमनोवैज्ञानिकाः , चिकित्सकाः , तत्त्वान्वेषिणो मनीषिणश्च योगं प्रत्याकृष्टा इव लक्ष्यन्ते , येन योगस्य विपुलः प्रचारः पाश्चात्त्यदेशेष्वपि दरीदृश्यते । 

एक टिप्पणी भेजें

0 टिप्पणियाँ